scriptदेवीस्तोत्रम्- नवरात्रि में इस स्तोत्रम् के पाठ से माँ दुर्गा सभी संकटो का नाश कर देती हैं | durga devi stotra in hindi | Patrika News
धर्म-कर्म

देवीस्तोत्रम्- नवरात्रि में इस स्तोत्रम् के पाठ से माँ दुर्गा सभी संकटो का नाश कर देती हैं

देवीस्तोत्रम्- नवरात्रि में इस स्तोत्रम् के पाठ से माँ दुर्गा सभी संकटो का नाश कर देती हैं

Oct 04, 2018 / 12:27 pm

Shyam

durga devi stotra

देवीस्तोत्रम्- नवरात्रि में इस स्तोत्रम् के पाठ से माँ दुर्गा सभी संकटो का नाश कर देती हैं

।। अथ देवीस्तोत्रम् ।।

1- नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नम: ।
कल्याण्यै कामदायै च वृद्धयै सिद्धयै नमो नम: ।।

2- सच्चिदानन्दरूपिण्यै संसारारणयै नम: ।
पंचकृत्यविधात्र्यै ते भुवनेश्यै नमो नम: ।।

3- सर्वाधिष्ठानरूपायै कूटस्थायै नमो नम: ।
अर्धमात्रार्थभूतायै हृल्लेखायै नमो नम: ।।
4- ज्ञातं मयाsखिलमिदं त्वयि सन्निविष्टं ।
त्वत्तोsस्य सम्भवलयावपि मातरद्य ।
शक्तिश्च तेsस्य करणे विततप्रभावा ।
ज्ञाताsधुना सकललोकमयीति नूनम् ।।

5- विस्तार्य सर्वमखिलं सदसद्विकारं ।
सन्दर्शयस्यविकलं पुरुषाय काले ।
तत्त्वैश्च षोडशभिरेव च सप्तभिश्च ।
भासीन्द्रजालमिव न: किल रंजनाय ।।

6- न त्वामृते किमपि वस्तुगतं विभाति ।
व्याप्यैव सर्वमखिलं त्वमवस्थिताsसि ।
शक्तिं विना व्यवहृतो पुरुषोsप्यशक्तो ।
बम्भण्यते जननि बुद्धिमता जनेन ।।
7- प्रीणासि विश्वमखिलं सततं प्रभावै: ।
स्वैस्तेजसा च सकलं प्रकटीकरोषि ।
अस्त्येव देवि तरसा किल कल्पकाले ।
को वेद देवि चरितं तव वैभवस्य ।।

8- त्राता वयं जननि ते मधुकैटभाभ्यां ।
लोकाश्च ते सुवितता: खलु दर्शिता वै ।
नीता: सुखस्य भवने परमां च कोटिं ।
यद्दर्शनं तव भवानि महाप्रभावम् ।।
9- नाहं भवो न च विरिण्चि विवेद मात: ।
कोsन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् ।
कानीह सन्ति भुवनानि महाप्रभावे ।
ह्यस्मिन्भवानि रचिते रचनाकलापे ।।

10- अस्माभिरत्र भुवे हरिरन्य एव ।
दृष्ट: शिव: कमलज: प्रथितप्रभाव: ।
अन्येषु देवि भुवनेषु न सन्ति किं ते ।
किं विद्य देवि विततं तव सुप्रभावम् ।।
11- याचेsम्ब तेsड़्घ्रिकमलं प्रणिपत्य कामं ।
चित्ते सदा वसतु रूपमिदं तवैतत् ।
नामापि वक्त्रकुहरे सततं तवैव ।
संदर्शनं तव पदाम्बुजयो: सदैव ।।

12- भृत्योsयमस्ति सततं मयि भावनीयं ।
त्वां स्वामिनीति मनसा ननु चिन्तयामि ।
एषाssवयोरविरता किल देवि भूया- ।
द्वयाप्ति: सदैव जननीसुतयोरिवार्ये ।।
13- त्वं वेत्सि सर्वमखिलं भुवनप्रपंचं ।
सर्वज्ञता परिसमाप्तिनितान्तभूमि: ।
किं पामरेण जगदम्ब निवेदनीयं ।
यद्युक्तमाचर भवानि तवेंगितं स्यात् ।।

14- ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च ।
संहारकारक इयं तु जने प्रसिद्धि: ।
किं सत्यमेतदपि देवि तवेच्छया वै ।
कर्तुं क्षमा वयमजे तव शक्तियुक्ता: ।।
15 धात्री धराधरसुते न जगद् बिभर्ति ।
आधारशक्तिरखिलं तव वै बिभर्ति ।
सूर्योsपि भाति वरदे प्रभया युतस्ते ।
त्वं सर्वमेतदखिलं विरजा विभासि ।।

16- ब्रह्माsहमीश्वरवर: किल ते प्रभावा-।
त्सर्वे वयं जनियुता न यदा तु नित्या: ।
केsन्ये सुरा: शतमखप्रमुखाश्च नित्या ।
नित्या त्वमेव जननी प्रकृति: पुराणा ।।
17- त्वं चेद्भवानि दयसे पुरुषं पुराणं ।
जानेsहमद्य तव सन्निधिग: सदैव ।
नोचेदहं विभुरनादिरनीह ईशो ।
विश्वात्मधीरति तम:प्रक्रति: सदैव ।।

18- विद्या त्वमेव ननु बुद्धिमतां नराणां ।
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा ।
मुक्तिप्रदा विरतिरेव मनुष्यलोके ।।
19- गायत्र्यसि प्रथमवेदकला त्वमेव ।
स्वाहा स्वधा भगवती सगुणार्धमात्रा ।
आम्नाय एव विहितो निगमो भवत्या ।
संजीवनाय सततं सुरपूर्वजानाम् ।।


20- मोक्षार्थमेव रचयस्यखिलं प्रपंचं ।
तेषां गता: खलु यतो ननु जीवभाम् ।
अंशा अनादिनिधनस्य किलानघस्य ।
पूर्णार्णवस्य वितता हि यथा तरंगा: ।।
21- जीवो यदा तु परिवेत्ति तवैव कृत्यं ।
त्वं संहरस्यखिलमेतदिति प्रसिद्धम् ।
नाट्यं नटेन रचितं वितथेsन्तरंगे ।
कार्ये कृते विरमसे प्रथितप्रभावा ।।

22- त्राता त्वमेव मम मोहमयाद्भवाब्धे- ।
स्त्वामम्बिके सततमेमि महार्तिदे च ।
रागादिभिर्विरचिते वितथे किलान्ते ।
मामेव पाहि बहुदु:खकरे च काले ।।
23- नमो देवि महाविद्ये नमामि चरणौ तव ।
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।।

।। इति श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं ।।

Hindi News / Astrology and Spirituality / Dharma Karma / देवीस्तोत्रम्- नवरात्रि में इस स्तोत्रम् के पाठ से माँ दुर्गा सभी संकटो का नाश कर देती हैं

ट्रेंडिंग वीडियो