श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं संदधे॥2॥ विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये। वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:॥3॥ कृष्ण गोविन्दहे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।
अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक॥4॥ राक्षसक्षोभित: सीतया शोभितोदण्डकारण्यभूपुण्यताकारण:। लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्य-सम्पूजितो राघव: पातु माम्॥5॥ धेनुकारिष्टकानिष्टकृदद्वेषिहाकेशिहा कंसह्रद्वंशिकावादक:। पूतनाकोपक: सूरजाखेलनोबालगोपालक: पातु मां सर्वदा॥6॥ विद्युदुद्योतवत्प्रस्फुरद्वाससंप्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्। वन्यया मालया शोभितोर:स्थलंलोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥7॥ कुञ्चितैः कुन्तलैर्भ्राजमानाननंरत्नमौलिं लसत्कुण्डलं गण्डयो:।
हारकेयूरकं कङ्कणप्रोज्ज्वलंकिङ्किणीमञ्जुलं श्यामलं तं भजे॥8॥ अच्युतस्याष्टकं य: पठेदिष्टदंप्रेमत: प्रत्यहं पूरुष: सस्पृहम्। वृत्तत: सुन्दरं कर्तृविश्वम्भरस्तस्यवश्यो हरिर्जायते सत्वरम्॥9॥ ॥ इति श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं सम्पूर्णम् ॥